श्रीसूक्तम् ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो मऽआवह।।1।। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्या हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।।2।। अश्वपूर्णा रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम् ।।3।। कां सोस्मितां हिरण्यप्राकारामाद्रा ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मस्थितां पद्मवर्णा तामिहो पह्वये श्रियम् ।।4।। चन्द्रां प्रभासां यशसा ज्वल्न्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनींमीं शरण प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि ।।5।। आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फ़लानि तपसानुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ।।6।। उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे ।।7।। क्षुत्पिपासामलां जयेष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वा निणुद मे गृहात् ।।8।। गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।।9।। मनसः काममाकूतिं वाचः सत्यमशीमहि । पशुनां रुपमन्नस्य मयि श्रीः श्रयतां यशः ।।10।। कर्दमेन प्रजाभूता मयि सम्भवकर्दम । श्रियं वासय मे कुले मातरं पद्मालिनीम् ।।11।। आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । निच देवी मातरं श्रियं वासय मे कुले ।।12।। आर्द्रा पुष्करिणीं पुष्टिं पिंगलां पद्मालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो में आवह ।।13।। आर्द्रा यः करिणीं यष्टिं सुवर्णा हेममालिनीम् । सूर्या हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।14।। तां म ऽ आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्या हिरण्य प्रभूतं गावो दास्योऽश्वन्विन्देयं पुरुषानहम् ।।15।। यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तमं पंचदशर्च च श्रीकामः सततं जपेत् ।।16।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें